Uttarakanda, Sarga 47, Verse 1
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा
परं विषादमागम्य वैदेही निपपात ह
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा
परं विषादमागम्य वैदेही निपपात ह
सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणा
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण
धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः
याहं शुद्धसमाचारा त्यक्ता नृपतिना सती
पुराहमाश्रमे वासं रामपादानुवर्तिनी
अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा
किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे
कस्मिन्वा कारणे त्यक्ता राघवेण महात्मना
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते
यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम्
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम
श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण च
शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा
परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा
यत्त्वं पौरजनं राजन्धर्मेण समवाप्नुयाः
अहं तु नानुशोचामि स्वशरीरं नरर्षभ
यथापवादं पौराणां तथैव रघुनन्दन
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः
शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह
प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम्
आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत्
स गत्वा चोत्तरं कूलं शोकभारसमन्वितः
संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम्
मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत्
वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ
दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः
निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत्
सा दुःखभारावनता तपस्विनी; यशोधरा नाथमपश्यती सती
रुरोद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती