Uttarakanda, Sarga 46, Verse 1
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः
उवाच शोकसंतप्तः प्रयाहीति च नाविकम्
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः
हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः
श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत्
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते
प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण
पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः
शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः
तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः
अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह
श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम्
पुरे जनपदे चैव त्वत्कृते जनकात्मजे
न तानि वचनीयानि मया देवि तवाग्रतः
यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः
सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ
पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि
राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम्
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे
राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः
सखा परमको विप्रो वाल्मीकिः सुमहायशाः
पादच्छायामुपागम्य सुखमस्य महात्मनः
उपवासपरैकाग्रा वस त्वं जनकात्मजे
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति