Uttarakanda, Sarga 44, Verse 1
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा
पौराणां मम सीतायां यादृशी वर्तते कथा
पौरापवादः सुमहांस्तथा जनपदस्य च
वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्
सीतां पापसमाचारामानयेयं कथं पुरे
जानासि हि यथा सौम्य दण्डके विजने वने
रावणेन हृता सीता स च विध्वंसितो मया
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः
अपापां मैथिलीमाह वायुश्चाकाशगोचरः
चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम्
एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः
अयं तु मे महान्वादः शोकश्च हृदि वर्तते
पौरापवादः सुमहांस्तथा जनपदस्य च
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्
पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते
अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते
कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम्
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम्
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे
न हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम्
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज
गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः
आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः
तत्रैनां विजने कक्षे विसृज्य रघुनन्दन
शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम
न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचन
अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते
शापिताश्च मया यूयं भुजाभ्यां जीवितेन च
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम
पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान्
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः