Valmiki Ramayana

Uttarakanda, Sarga 43

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 1

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः

समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 2

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्

भरतं च महाबाहुं शत्रुघ्नं चापराजितम्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 3

रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः

लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 4

उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः

द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 5

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम्

प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 6

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्

उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 7

भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्

उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 8

दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः

शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 9

एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति

गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 10

श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्

शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 11

कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः

अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 12

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः

एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 13

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः

प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 14

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा

संध्यागतमिवादित्यं प्रभया परिवर्जितम्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 15

बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः

हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 16

ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः

तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत्

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 17

तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः

आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 18

भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्

भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः

Valmiki Ramayana

Uttarakanda, Sarga 43, Verse 19

भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः

संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः