Uttarakanda, Sarga 42, Verse 1
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः
कथानां बहुरूपाणां हास्यकाराः समन्ततः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः
कथानां बहुरूपाणां हास्यकाराः समन्ततः
विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः
सुराजिः कालियो भद्रो दन्तवक्रः समागधः
एते कथा बहुविधा परिहाससमन्विताः
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः
ततः कथायां कस्यांचिद्राघवः समभाषत
काः कथा नगरे भद्र वर्तन्ते विषयेषु च
मामाश्रितानि कान्याहुः पौरजानपदा जनाः
किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम्
किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे
वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत्
स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम्
अयं तु विजयः सौम्य दशग्रीववधाश्रितः
भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत्
कथयस्व यथातथ्यं सर्वं निरवशेषतः
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च
कथयस्व च विस्रब्धो निर्भयो विगतज्वरः
कथयन्ते यथा पौरा जना जनपदेषु च
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम्
चत्वरापणरथ्यासु वनेषूपवनेषु च
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम्
अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः
रावणश्च दुराधर्षो हतः सबलवाहनः
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः
हत्वा च रावणं युद्धे सीतामाहृत्य राघवः
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्
कीदृशं हृदये तस्य सीतासंभोगजं सुखम्
अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम्
लङ्कामपि पुनर्नीतामशोकवनिकां गताम्
रक्षसां वशमापन्नां कथं रामो न कुत्सते
अस्माकमपि दारेषु सहनीयं भविष्यति
यथा हि कुरुते राजा प्रजा तमनुवर्तते
एवं बहुविधा वाचो वदन्ति पुरवासिनः
नगरेषु च सर्वेषु राजञ्जनपदेषु च
तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत्
उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम्
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्
विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः