Uttarakanda, Sarga 41, Verse 1
स विसृज्य ततो रामः पुष्पकं हेमभूषितम्
प्रविवेश महाबाहुरशोकवनिकां तदा
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
स विसृज्य ततो रामः पुष्पकं हेमभूषितम्
प्रविवेश महाबाहुरशोकवनिकां तदा
चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि
देवदारुवनैश्चापि समन्तादुपशोभिताम्
प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि
जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम्
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः
शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः
नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः
तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः
शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा
तथारूपं हि रामस्य काननं तन्निवेशितम्
बह्वासनगृहोपेतां लतागृहसमावृताम्
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः
आसने तु शुभाकारे पुष्पस्तबकभूषिते
कुथास्तरणसंवीते रामः संनिषसाद ह
सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम्
पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम्
मांसानि च विचित्राणि फलानि विविधानि च
रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन्
उपनृत्यन्ति राजानं नृत्यगीतविशारदाः
बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः
एवं रामो मुदा युक्तः सीतां सुरुचिराननाम्
रमयामास वैदेहीमहन्यहनि देववत्
तथा तु रममाणस्य तस्यैवं शिशिरः शुभः
अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः
पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित्
शेषं दिवसभागार्धमन्तःपुरगतोऽभवत्
सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु
श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता
ततो राममुपागच्छद्विचित्रबहुभूषणा
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
अपत्यलाभो वैदेहि ममायं समुपस्थितः
किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव
प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत्
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव
गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम्
फलमूलाशिनां वीर पादमूलेषु वर्तितुम्
एष मे परमः कामो यन्मूलफलभोजिषु
अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम्
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः