Uttarakanda, Sarga 39, Verse 1
तथा स्म तेषां वसतामृक्षवानररक्षसाम्
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा स्म तेषां वसतामृक्षवानररक्षसाम्
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः
पालयस्व सहामात्यै राज्यं निहतकण्टकम्
अङ्गदं च महाबाहो प्रीत्या परमयान्वितः
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम्
सुषेणं श्वशुरं शूरं तारं च बलिनां वरम्
कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम्
वीरं शतबलिं चैव मैन्दं द्विविदमेव च
गजं गवाक्षं गवयं शरभं च महाबलम्
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम्
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च
ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः
एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः
विभीषणमथोवाच रामो मधुरया गिरा
लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव
पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः
साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम्
हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत्
स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः
भक्तिश्च नियता वीर भावो नान्यत्र गच्छति
यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले
तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः
एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात्
उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा
चरिष्यति कथा यावल्लोकानेषा हि मामिका
तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः
ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः
वैदूर्यतरलं स्नेहादाबबन्धे हनूमति
तेनोरसि निबद्धेन हारेण स महाकपिः
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः
प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः
सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः
विभीषणश्च धर्मात्मा निरन्तरमुरोगतः
सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः
संमूढा इव दुःखेन त्यजन्ते राघवं तदा