Valmiki Ramayana

Uttarakanda, Sarga 38

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 1

ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्

कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 2

अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः

हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 3

ऊचुश्चैव महीपाला बलदर्पसमन्विताः

न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 4

भरतेन वयं पश्चात्समानीता निरर्थकम्

हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 5

रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च

सुखं पारे समुद्रस्य युध्येम विगतज्वराः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 6

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः

कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 7

यथापुराणि ते गत्वा रत्नानि विविधानि च

रामाय प्रियकामार्थमुपहारान्नृपा ददुः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 8

अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्

चन्दनानि च दिव्यानि दिव्यान्याभरणानि च

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 9

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः

आदाय तानि रत्नानि अयोध्यामगमन्पुनः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 10

आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः

ददुः सर्वाणि रत्नानि राघवाय महात्मने

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 11

प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः

सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 12

विभीषणाय च ददौ ये चान्ये ऋक्षवानराः

हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 13

ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ

शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 14

पपुश्चैव सुगन्धीनि मधूनि विविधानि च

मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 15

एवं तेषां निवसतां मासः साग्रो गतस्तदा

मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 16

रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः

राजभिश्च महावीर्यै राक्षसैश्च महाबलैः

Valmiki Ramayana

Uttarakanda, Sarga 38, Verse 17

एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्

वानराणां प्रहृष्टानां राक्षसानां च सर्वशः