Uttarakanda, Sarga 37, Verse 1
विमृश्य च ततो रामो वयस्यमकुतोभयम्
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
विमृश्य च ततो रामो वयस्यमकुतोभयम्
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्
उद्योगश्च कृतो राजन्भरतेन त्वया सह
तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज
रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्
एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात्
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्
विसृज्य तं वयस्यं स स्वागतान्पृथिवीपतीन्
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम्
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा
युष्माकं च प्रभावेन तेजसा च महात्मनाम्
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः
हेतुमात्रमहं तत्र भवतां तेजसा हतः
रावणः सगणो युद्धे सपुत्रः सहबान्धवः
भवन्तश्च समानीता भरतेन महात्मना
श्रुत्वा जनकराजस्य कानने तनयां हृताम्
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्
कालो ह्यतीतः सुमहान्गमने रोचतां मतिः
प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः
दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः
एष नः परमः काम एषा नः कीर्तिरुत्तमा
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्
उपपन्नं च काकुत्स्थ यत्त्वमस्मान्प्रशंससि
प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम्
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा