Uttarakanda, Sarga 36, Verse 1
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः
चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः
पादयोर्न्यपतद्वायुस्तिस्रोऽवस्थाय वेधसे
तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा
चचार सर्वभूतेषु संनिरुद्धं यथापुरा
मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन्
शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः
ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया
भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः
जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम्
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति
ददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान्
ततः सहस्रनयनः प्रीतिरक्तः शुभाननः
कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत्
मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः
नाम्नैष कपिशार्दूलो भविता हनुमानिति
अहमेवास्य दास्यामि परमं वरमुत्तमम्
अतः प्रभृति वज्रस्य ममावध्यो भविष्यति
मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः
तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम्
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति
तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति
वर्षायुतशतेनापि मत्पाशादुदकादपि
यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः
दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे
गदेयं मामिका नैनं संयुगेषु वधिष्यति
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः
मत्तो मदायुधानां च न वध्योऽयं भविष्यति
इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः
सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः
विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम्
शिल्पिनां प्रवरः प्राह वरमस्य महामतिः
विनिर्मितानि देवानामायुधानीह यानि तु
तेषां संग्रामकाले तु अवध्योऽयं भविष्यति
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम्
चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः
अमित्राणां भयकरो मित्राणामभयंकरः
अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः
रावणोत्सादनार्थानि रामप्रीतिकराणि च
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे
एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह
यथागतं ययुः सर्वे पितामहपुरोगमाः
सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्
अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः
प्राप्य राम वरानेष वरदानबलान्वितः
बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः
बलेनापूर्यमाणो हि एष वानरपुंगवः
आश्रमेषु महर्षीणामपराध्यति निर्भयः
स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान्
भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम्
सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम्
जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः