Uttarakanda, Sarga 35, Verse 1
अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्
प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत्
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्
प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत्
अतुलं बलमेताभ्यां वालिनो रावणस्य च
न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्
विक्रमश्च प्रभावश्च हनूमति कृतालयाः
दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम्
समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा
दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा
सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः
एते हनुमता तत्र एकेन विनिपातिताः
भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम्
लङ्का भस्मीकृता तेन पावकेनेव मेदिनी
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः
प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः
हनूमान्यदि मे न स्याद्वानराधिपतेः सखा
प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत्
किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा
न हि वेदितवान्मन्ये हनूमानात्मनो बलम्
यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम्
एतन्मे भगवन्सर्वं हनूमति महामुने
विस्तरेण यथातत्त्वं कथयामरपूजित
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः
हनूमतः समक्षं तमिदं वचनमब्रवीत्
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः
न बले विद्यते तुल्यो न गतौ न मतौ परः
अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा
न वेदिता बलं येन बली सन्नरिमर्दनः
बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल
तन्न वर्णयितुं शक्यमतिबालतयास्य ते
यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव
समाधाय मतिं राम निशामय वदाम्यहम्
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता
तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता
जनयामास तस्यां वै वायुरात्मजमुत्तमम्
शालिशूकसमाभासं प्रासूतेमं तदाञ्जना
फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः
रुरोद शिशुरत्यर्थं शिशुः शरभराडिव
ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्
ददृशे फललोभाच्च उत्पपात रविं प्रति
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्
ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति
देवदानवसिद्धानां विस्मयः सुमहानभूत्
नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा
यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम्
यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ
यौवनं बलमासाद्य कथं वेगो भविष्यति
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः
बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम्
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः
कार्यं चात्र समायत्तमित्येवं न ददाह सः