Uttarakanda, Sarga 34, Verse 1
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः
राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम्
गत्वाह्वयति युद्धाय वालिनं हेममालिनम्
ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः
उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम्
राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत्
नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः
चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः
युद्धार्थिनामिमे राजन्वानराधिपतेजसा
यद्वामृतरसः पीतस्त्वया रावणराक्षस
तथा वालिनमासाद्य तदन्तं तव जीवितम्
अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम्
वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम्
स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्
रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम्
पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत्
यदृच्छयोन्मीलयता वालिनापि स रावणः
पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम्
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा
न चिन्तयति तं वाली रावणं पापनिश्चयम्
जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम्
कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान्
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ
हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्
पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम्
स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः
जहार रावणं वाली पवनस्तोयदं यथा
अथ ते राक्षसामात्या ह्रियमाणे दशानने
मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन्
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान्
तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः
तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च
वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः
अपक्षिगणसंपातो वानरेन्द्रो महाजवः
क्रमशः सागरान्सर्वान्संध्याकालमवन्दत
सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः
पश्चिमं सागरं वाली आजगाम सरावणः
तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः
उत्तरं सागरं प्रायाद्वहमानो दशाननम्
उत्तरे सागरे संध्यामुपासित्वा दशाननम्
वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम्
तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः
किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत्