Uttarakanda, Sarga 32, Verse 1
नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः
क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः
तासां मध्यगतो राज रराज स ततोऽर्जुनः
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्
रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः
कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम्
कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति
समीननक्रमकरः सपुष्पकुशसंस्तरः
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ
स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः
पुष्पोपहारं तत्सर्वं रावणस्य जहार ह
रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु
ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्
निर्विकाराङ्गनाभासां पश्यते रावणो नदीम्
सव्येतरकराङ्गुल्या सशब्दं च दशाननः
वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ
तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ
व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ
अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्
बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम्
मदरक्तान्तनयनं मदनाकारवर्चसं
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्
बालानां वरनारीणां सहस्रेणाभिसंवृतम्
समदानां करेणूनां सहस्रेणेव कुञ्जरम्
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ
संनिवृत्तावुपागम्य रावणं तमथोचतुः
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः
तेन बाहुसहस्रेण संनिरुद्धजला नदी
सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः
इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ
रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः
अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः
महोदरमहापार्श्वधूम्राक्षशुकसारणैः
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः
नातिदीर्घेण कालेन स ततो राक्षसो बली
तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः
इत्येवमर्जुनामात्यानाह गम्भीरया गिरा
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै
युद्धार्थं समनुप्राप्तो रावणो नाम नामतः
रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते
उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन्
युद्धस्य कालो विज्ञातः साधु भोः साधु रावण
यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम्
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्
क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया
युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम्
यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि