Uttarakanda, Sarga 30, Verse 1
जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै
प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै
प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा
तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम्
अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः
वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे
अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा
कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै
अयं च पुत्रोऽतिबलस्तव रावण रावणिः
इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति
बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः
यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः
किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः
अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः
अमरत्वमहं देव वृणोमीहास्य मोक्षणे
अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः
नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि
अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम्
श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे
ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्
संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः
तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः
युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम्
सर्वो हि तपसा चैव वृणोत्यमरतां पुमान्
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्
एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः
मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः
एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः
राम चिन्तापरीतात्मा ध्यानतत्परतां गतः
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः
शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम्
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा
ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम्
सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता
अहल्येत्येव च मया तस्या नाम प्रवर्तितम्
निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ
भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत्
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो
स्थानाधिकतया पत्नी ममैषेति पुरंदर
सा मया न्यासभूता तु गौतमस्य महात्मनः
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा
ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा
स तया सह धर्मात्मा रमते स्म महामुनिः
आसन्निराशा देवास्तु गौतमे दत्तया तया
त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव
सा त्वया धर्षिता शक्र कामार्तेन समन्युना
दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा
ततः क्रुद्धेन तेनासि शप्तः परमतेजसा
गतोऽसि येन देवेन्द्र दशाभागविपर्ययम्
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्
तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः
मानुषेष्वपि सर्वेषु भविष्यति न संशयः