Uttarakanda, Sarga 29, Verse 1
ततस्तमसि संजाते राक्षसा दैवतैः सह
अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम्
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तमसि संजाते राक्षसा दैवतैः सह
अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम्
ततस्तु देवसैन्येन राक्षसानां महद्बलम्
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम्
तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम्
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः
स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे
क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान्
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह
परसैन्यस्य मध्येन यावदन्तं नयस्व माम्
अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम्
नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात्
अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम्
त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम्
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम्
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम्
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान्
आदिदेशाथ शत्रूणां मध्येनैव च सारथिः
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा
रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत्
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम्
एष ह्यतिबलः सैन्ये रथेन पवनौजसा
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि
न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे
यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया
एवमेतस्य पापस्य निग्रहो मम रोचते
ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम्
अयुध्यत महातेजा राक्षसान्नाशयन्रणे
उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः
ततः स योजनशतं प्रविष्टो राक्षसाधिपः
देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत्
ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम्
न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम्
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः
हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम्
ततो रथं समारुह्य रावणिः क्रोधमूर्छितः
तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम्
स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा
अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत्
ततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम्
महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः
स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः
महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत्
ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम्
ऐरावतं समारुह्य मृगयामास रावणिम्
स तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत
किरमाणः शरौघेन महेन्द्रममितौजसं
स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः
तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत्
तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे
महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः
न हि दृश्यति विद्यावान्मायया येन नीयते
एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा
अभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः