Uttarakanda, Sarga 25, Verse 1
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत्
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत्
ततो निकुम्भिला नाम लङ्कायाः काननं महत्
महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः
तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्
ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्
ददर्श स्वसुतं तत्र मेघनादमरिंदमम्
रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः
अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे
उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः
अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च
यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः
राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्
मायां च तामसीं नाम यया संपद्यते तमः
एतया किल संग्रामे मायया राक्षसेश्वर
प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्
अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे
एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन
अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम्
ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम्
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः
एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः
स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः
लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम्
नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा
विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः
तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत्
ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः
धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे
ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्
को वायं यस्त्वयाख्यातो मधुरित्येव नामतः
विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्
श्रूयतामस्य पापस्य कर्मणः फलमागतम्
मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः
माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः
पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत्
तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत्
मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा
भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा
सा हृता मधुना राजन्राक्षसेन बलीयसा
यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते
निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान्
धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव
श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः
यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः
अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते
ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः