Uttarakanda, Sarga 23, Verse 1
स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्
रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्
रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः
पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह
ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्
दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम्
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्
स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम्
निवातकवचास्तत्र दैत्या लब्धवरा वसन्
राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत्
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः
नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः
न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः
आजगाम द्रुतं देवो विमानवरमास्थितः
निवातकवचानां तु निवार्य रणकर्म तत्
वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्
न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः
न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः
राक्षसस्य सखित्वं वै भवद्भिः सह रोचते
अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः
ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः
निवातकवचैः सार्धं प्रीतिमानभवत्तदा
अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः
स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः
स तूपधार्य मायानां शतमेकोनमात्मवान्
सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम्
ततोऽश्मनगरं नाम कालकेयाभिरक्षितम्
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्
ततः पाण्डुरमेघाभं कैलासमिव संस्थितम्
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः
क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम्
यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः
यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः
यं समासाद्य जीवन्ति फेनपाः परमर्षयः
अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम्
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः
अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम्
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्
वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः
युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः
ततो युद्धं समभवद्दारुणं लोमहर्षणम्
सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः
अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम्
समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा
अर्दिताः शरजालेन निवृत्ता रणकर्मणः
महीतलगतास्ते तु रावणं दृश्य पुष्पके
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः
महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्
आकाशयुद्धं तुमुलं देवदानवयोरिव
ततस्ते रावणं युद्धे शरैः पावकसंनिभैः
विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान्