Uttarakanda, Sarga 22, Verse 1
स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः
शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः
शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम्
स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः
अब्रवीत्त्वरितं सूतं रथः समुपनीयताम्
तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम्
स्थितः स च महातेजा आरुरोह महारथम्
पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः
येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम्
कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः
यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा
ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः
कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम्
दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम्
सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम्
लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः
नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्
नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत्
स तु रावणमासाद्य विसृजञ्शक्तितोमरान्
यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत
रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह
तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः
ततो महाशक्तिशतैः पात्यमानैर्महोरसि
प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः
नानाप्रहरणैरेवं यमेनामित्रकर्शिना
सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा
ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा
विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम्
संवर्त इव लोकानामभवद्युध्यतोस्तयोः
राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च
राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे
निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत्
यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत्
ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः
ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः
ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः
क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम्
मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत्
मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम्
नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली
नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ
एते चान्ये च बहवो बलवन्तो दुरासदाः
विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे
मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्
न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः
संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः
एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान्
अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम्
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः
कालदण्डममोघं तं तोलयामास पाणिना
यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः
पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः
दर्शनादेव यः प्राणान्प्राणिनामुपरुध्यति
किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः
स ज्वालापरिवारस्तु पिबन्निव निशाचरम्
करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः