Uttarakanda, Sarga 19, Verse 1
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः
स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान्
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति
निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः
अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते
ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः
एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः
अथायोध्यां समासाद्य रावणो राक्षसाधिपः
सुगुप्तामनरण्येन शक्रेणेवामरावतीम्
प्राह राजानमासाद्य युद्धं मे संप्रदीयताम्
निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम्
अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत्
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया
अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत्
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम्
नागानां बहुसाहस्रं वाजिनामयुतं तथा
महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात्
तद्रावणबलं प्राप्य बलं तस्य महीपतेः
प्राणश्यत तदा राजन्हव्यं हुतमिवानले
सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम्
महार्णवं समासाद्य यथा पञ्चापगा जलम्
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम्
आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः
ततो बाणशतान्यष्टौ पातयामास मूर्धनि
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित्
वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा
तलेन भिहतो मूर्ध्नि स रथान्निपपात ह
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः
वज्रदग्ध इवारण्ये सालो निपतितो महान्
तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम्
किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप
शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्
किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः
न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना
कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान्
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः
यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम्
राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्
स्वर्गते च नृपे राम राक्षसः स न्यवर्तत