Uttarakanda, Sarga 16, Verse 1
स जित्वा भ्रातरं राम धनदं राक्षसाधिपः
महासेनप्रसूतिं तु ययौ शरवणं ततः
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
स जित्वा भ्रातरं राम धनदं राक्षसाधिपः
महासेनप्रसूतिं तु ययौ शरवणं ततः
अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा
गभस्तिजालसंवीतं द्वितीयमिव भास्करम्
पर्वतं स समासाद्य किंचिद्रम्यवनान्तरम्
अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि
विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम्
राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः
किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम्
पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत्
ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः
नैतन्निष्कारणं राजन्पुष्पकोऽयं न गच्छति
ततः पार्श्वमुपागम्य भवस्यानुचरो बली
नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः
स रोषात्ताम्रनयनः पुष्पकादवरुह्य च
कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत्
नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम्
दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम्
स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः
प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः
संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः
अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम्
यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते
मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि
तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः
उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः
किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः
अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः
पर्वतं तं समासाद्य वाक्यमेतदुवाच ह
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः
तदेतच्छैलमुन्मूलं करोमि तव गोपते
केन प्रभावेन भवस्तत्र क्रीडति राजवत्
विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम्
एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते
तोलयामास तं शैलं समृगव्यालपादपम्
ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम्
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया
ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः
रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा
मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम्
मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम्
देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु
ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा
मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम्
प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर
रवतो वेदना मुक्तः स्वरः परमदारुणः
यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम्
तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि
देवता मानुषा यक्षा ये चान्ये जगतीतले
एवं त्वामभिधास्यन्ति रावणं लोकरावणम्
गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि
मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम्
साक्षान्महेश्वरेणैवं कृतनामा स रावणः
अभिवाद्य महादेवं विमानं तत्समारुहत्