Uttarakanda, Sarga 14, Verse 1
ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना
वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव
पुराणि स नदीः शैलान्वनान्युपवनानि च
अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत्
तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु
राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः
गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम्
अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते
ततो बलस्य संक्षोभः सागरस्येव वर्धतः
अभून्नैरृतराजस्य गिरिं संचालयन्निव
ततो युद्धं समभवद्यक्षराक्षससंकुलम्
व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः
तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः
हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः
ते सहस्रं सहस्राणामेकैकं समयोधयन्
ततो गदाभिः परिघैरसिभिः शक्तितोमरैः
वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत
तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः
वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम्
स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम्
वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम्
तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः
अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः
केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ
ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः
भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे
निषेदुस्ते तदा यक्षाः कूला जलहता इव
हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले
प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः
अगमत्सुमहान्यक्षो नाम्ना संयोधकण्टकः
तेन यक्षेण मारीचो विष्णुनेव समाहतः
पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात्
प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे
ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम्
मर्यादां द्वारपालानां तोरणं तत्समाविशत्
ततो राम दशग्रीवं प्रविशन्तं निशाचरम्
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत्
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः
राक्षसो यक्षसृष्टेन तोरणेन समाहतः
न क्षितिं प्रययौ राम वरात्सलिलयोनिनः
स तु तेनैव तं यक्षं तोरणेन समाहनत्
नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः
ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम्
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः