Uttarakanda, Sarga 13, Verse 1
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित्
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित्
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः
निद्रा मां बाधते राजन्कारयस्व ममालयम्
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत्
अकुर्वन्कुम्भकर्णस्य कैलाससममालयम्
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्
वैदूर्यकृतशोभं च किङ्किणीजालकं तथा
दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्
सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव
तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः
बहून्यब्दसहस्राणि शयानो नावबुध्यते
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः
देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः
उद्यानानि विचित्राणि नन्दनादीनि यानि च
तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन्
नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः
तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः
कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः
सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा
लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम्
स गत्वा नगरीं लङ्कामाससाद विभीषणम्
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान्
सभायां दर्शयामास तमासीनं दशाननम्
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा
जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम्
तस्योपनीते पर्यङ्के वरास्तरणसंवृते
उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत्
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत्
उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च
साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः
देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे
निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप
अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्
रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः
तत्र देवो मया दृष्टः सह देव्योमया प्रभुः
सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम्
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना
रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती
ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम्
रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम्
ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्
पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम्
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः
प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप
तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम्
व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा
तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर
तपसा निर्जितत्वाद्धि सखा भव ममानघ
देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम्
एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम्