Uttarakanda, Sarga 12, Verse 1
राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्
ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम्
स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः
अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम्
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः
अपृच्छत्को भवानेको निर्मनुष्य मृगे वने
मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम्
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम्
सा च दैवतकार्येण गता वर्षं चतुर्दशम्
तस्याः कृते च हेमायाः सर्वं हेमपुरं मया
वज्रवैदूर्यचित्रं च मायया निर्मितं तदा
तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता
भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम्
कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम्
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति
द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम्
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः
त्वामिदानीं कथं तात जानीयां को भवानिति
एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत्
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः
ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः
दातुं दुहितरं तस्य रोचयामास तत्र वै
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः
इयं ममात्मजा राजन्हेमयाप्सरसा धृता
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम्
बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत
प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम्
न हि तस्य मयो राम शापाभिज्ञस्तपोधनात्
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम्
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम्
परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया
एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः
गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत्
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः
तां भार्यां कुम्भकर्णस्य रावणः समुदावहत्
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः
सरमां नाम धर्मज्ञो लेभे भार्यां विभीषणः
तीरे तु सरसः सा वै संजज्ञे मानसस्य च
मानसं च सरस्तात ववृधे जलदागमे
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः
सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत्
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः
स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने
ततो मन्दोदरी पुत्रं मेघनादमसूयत
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते
जातमात्रेण हि पुरा तेन राक्षससूनुना
रुदता सुमहान्मुक्तो नादो जलधरोपमः
जडीकृतायां लङ्कायां तेन नादेन तस्य वै
पिता तस्याकरोन्नाम मेघनाद इति स्वयम्
सोऽवर्धत तदा राम रावणान्तःपुरे शुभे
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः