Uttarakanda, Sarga 11, Verse 1
सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान्
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान्
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात्
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः
सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत्
दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽयं मनोरथः
यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम्
यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम्
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्
असकृत्तेन भग्ना हि परित्यज्य स्वमालयम्
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्
अस्मदीया च लङ्केयं नगरी राक्षसोषिता
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्
त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्
वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम्
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम्
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम्
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम
अदितिश्च दितिश्चैव भगिन्यौ सहिते किल
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः
अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान्
दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान्
दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा
सपर्वता मही वीर तेऽभवन्प्रभविष्णवः
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम्
नैतदेको भवानेव करिष्यति विपर्ययम्
सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम
एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना
चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत्
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान्
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः
प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम्
प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम्
वचनान्मम वित्तेशं सामपूर्वमिदं वचः
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम्
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ
तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम
कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः
इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः
दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत्
प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः
ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम
तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम्
सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात्
किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्
एष तात दशग्रीवो दूतं प्रेषितवान्मम
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता
मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः
उवाच धनदं वाक्यं शृणु पुत्र वचो मम