Uttarakanda, Sarga 9, Verse 1
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्
अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्
तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम्
अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः
पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः
त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति
सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्
गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः
तेजसा भास्करसमा यादृशोऽयं धनेश्वरः
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः
सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात्
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्
अब्रवीत्परमोदारो दीप्यमान इवौजसा
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता
किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्
आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम्
किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम्
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः
भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः
अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः
मम वंशानुरूपश्च धर्मात्मा च भविष्यति
एवमुक्ता तु सा कन्या राम कालेन केनचित्
जनयामास बीभत्सं रक्षोरूपं सुदारुणम्
दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्
ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्
जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे
ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः
प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि
अथ नामाकरोत्तस्य पितामहसमः पिता
दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते
ततः शूर्पणखा नाम संजज्ञे विकृतानना
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः
ते तु तत्र महारण्ये ववृधुः सुमहौजसः
तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत्
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान्
त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह
विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः
स्वाध्यायनियताहार उवास नियतेन्द्रियः