Uttarakanda, Sarga 6, Verse 1
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन
शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः
स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत्
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्
अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम्
इति ते राक्षसा देव वरदानेन दर्पिताः
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः
तन्नो देवभयार्तानामभयं दातुमर्हसि
अशिवं वपुरास्थाय जहि दैवतकण्टकान्
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः
सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः
नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति
एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः
गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः
ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम्
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च
ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः
आक्रम्य वरदानेन स्थानान्यपहृतानि नः
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः
स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन
चक्रकृत्तास्यकमलान्निवेदय यमाय वै
भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः
नुद त्वं नो भयं देव नीहारमिव भास्करः
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह
सुकेशं राक्षसं जाने ईशानवरदर्पितम्
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान्
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान्
सूदयिष्यामि संग्रामे सुरा भवत विज्वराः
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना
यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम्
विबुधानां समुद्योगं माल्यवान्स निशाचरः
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्
अमरा ऋषयश्चैव संहत्य किल शंकरम्
अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम्
सुकेशतनया देव वरदानबलोद्धताः
बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे
राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते
स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम्
तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन
राक्षसान्हुंकृतेनैव दह प्रदहतां वर
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः
शिरः करं च धुन्वान इदं वचनमब्रवीत्
अवध्या मम ते देवाः सुकेशतनया रणे
मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति
यः स चक्रगदापाणिः पीतवासा जनार्दनः
हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ
हरान्नावाप्य ते कामं कामारिमभिवाद्य च
नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन्
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः
सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः