Uttarakanda, Sarga 5, Verse 1
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः
तस्य देववती नाम द्वितीया श्रीरिवात्मजा
तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः
स तया सह संयुक्तो रराज रजनीचरः
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः
देववत्यां सुकेशस्तु जनयामास राघव
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम्
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः
त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव
वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत्
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम
विचेरुस्ते तपो घोरं सर्वभूतभयावहम्
सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः
संतापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान्
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः
सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम्
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः
तपसाराधितो देव यदि नो दिशसे वरम्
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः
प्रभविष्णवो भवामेति परस्परमनुव्रताः
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः
प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः
वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा
सुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः
तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम
गृहकर्ता भवानेव देवानां हृदयेप्सितम्
अस्माकमपि तावत्त्वं गृहं कुरु महामते
हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः
निवासं कथयामास शक्रस्येवामरावतीम्
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः
शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि
त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता
तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः
विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः
सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम्
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्
लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः
नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता
तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः
मात्रा दत्ता महाभागा नक्षत्रे भगदैवते
कृतदारास्तु ते राम सुकेशतनयाः प्रभो
भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः