Uttarakanda, Sarga 2, Verse 1
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह
शृणु राजन्यथावृत्तं यस्य तेजोबलं महत्
जघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः
अहं ते रावणस्येदं कुलं जन्म च राघव
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः
तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः
देवपन्नगकन्याश्च राजर्षितनयाश्च याः
क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे
सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः
अथ रुष्टो महातेजा व्याजहार महामुनिः
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति
तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत्
गत्वाश्रमपदं तस्य विचचार सुनिर्भया
तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः
स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः
सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम्
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा
दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः
इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता
तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत्
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम्
न जाने कारणं तात येन मे रूपमीदृशम्
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम्
न च पश्याम्यहं तत्र कांचिदप्यागतां सखीम्
रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः
ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम्
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत्
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम्
तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते
शुश्रूषातत्परा नित्यं भविष्यति न संशयः
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः
दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह
परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम्
तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम्
यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम
तस्मात्स विश्रवा नाम भविष्यति न संशयः
एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना
अचिरेणैव कालेन सूता विश्रवसं सुतम्
स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः
पितेव तपसा युक्तो विश्रवा मुनिपुंगवः