Uttarakanda, Sarga 1, Verse 1
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम्
कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः
स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम्
पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम्
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः
जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः
संप्राप्यैते महात्मानो राघवस्य निवेशनम्
विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः
प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ
समीपं राघवस्याशु प्रविवेश महात्मनः
स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम्
अगस्त्यं कथयामास संप्राप्तमृषिभिः सह
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्
तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम्
दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह
तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च
यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः
महर्षयो वेदविदो रामं वचनमब्रुवन्
कुशलं नो महाबाहो सर्वत्र रघुनन्दन
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम्
न हि भारः स ते राम रावणो राक्षसेश्वरः
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः
दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान्
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः
देवतानामवध्येन विजयं प्राप्तवानसि
संख्ये तस्य न किंचित्तु रावणस्य पराभवः
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया
विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम्
अवध्यः सर्वभूतानां महामायाधरो युधि
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन
श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम्
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्
भवन्तः कुम्भकर्णं च रावणं च निशाचरम्
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम्
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम्
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः
केन वा कारणेनैष रावणादतिरिच्यते
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्
कथं शक्रो जितस्तेन कथं लब्धवरश्च सः