Yuddhakanda, Sarga 116, Verse 1
शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्
पूजिता मामिका माता दत्तं राज्यमिदं मम
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम
धुरमेकाकिना न्यस्तामृषभेण बलीयसा
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे
वारिवेगेन महता भिन्नः सेतुरिव क्षरन्
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्
गतिं खर इवाश्वस्य हंसस्येव च वायसः
नान्वेतुमुत्सहे देव तव मार्गमरिंदम
यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने
महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान्
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत्
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि
यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च
यावदावर्तते चक्रं यावती च वसुंधरा
तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय
भरतस्य वचः श्रुत्वा रामः परपुरंजयः
तथेति प्रतिजग्राह निषसादासने शुभे
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्
प्रतिकर्म च रामस्य कारयामास वीर्यवान्
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्
ततो राघवपत्नीनां सर्वासामेव शोभनम्
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला
ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः
योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्
अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्
आरुरोह महाबाहू रामः सत्यपराक्रमः
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्
मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम्
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम्
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः
प्रययौ रथमास्थाय रामो नगरमुत्तमम्
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत्
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः
ऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैः
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः
ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम्
आरुरोह महातेजाः सुग्रीवो वानरेश्वरः
नवनागसहस्राणि ययुरास्थाय वानराः
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः
प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्