Yuddhakanda, Sarga 114, Verse 1
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे
एति जीवन्तमानन्दो नरं वर्षशतादपि
राघवस्य हरीणां च कथमासीत्समागमः
कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः
आचचक्षे ततः सर्वं रामस्य चरितं वने
यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव
यथा च पुत्रशोकेन राजा दशरथो मृतः
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः
निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम्
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्
आर्यस्य पादुके गृह्य यथासि पुनरागतः
सर्वमेतन्महाबाहो यथावद्विदितं तव
त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्
प्रविवेशाथ विजनं सुमहद्दण्डकावनम्
तेषां पुरस्ताद्बलवान्गच्छतां गहने वने
विनदन्सुमहानादं विराधः प्रत्यदृश्यत
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्
निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्
तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ
सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः
अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत्
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
हतानि वसता तत्र राघवेण महात्मना
ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता
ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः
प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः
ततस्तेनार्दिता बाला रावणं समुपागता
रावणानुचरो घोरो मारीचो नाम राक्षसः
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः
सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति
अहो मनोहरः कान्त आश्रमे नो भविष्यति
ततो रामो धनुष्पाणिर्धावन्तमनुधावति
स तं जघान धावन्तं शरेणानतपर्वणा
अथ सौम्या दशग्रीवो मृगं याते तु राघवे
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्
प्रगृह्य सीतां सहसा जगामाशु स रावणः
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः
ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम्
प्रविवेर्श तदा लङ्कां रावणो लोकरावणः
तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे
गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः
गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान्
आसेदतुर्महारण्ये कबन्धं नाम राक्षसं
ततः कबन्धवचनाद्रामः सत्यपराक्रमः
ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत
इतरेतर संवादात्प्रगाढः प्रणयस्तयोः
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्
वालिनं समरे हत्वा महाकायं महाबलम्