Yuddhakanda, Sarga 113, Verse 1
अयोध्यां तु समालोक्य चिन्तयामास राघवः
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
अयोध्यां तु समालोक्य चिन्तयामास राघवः
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्
प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम्
उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्
अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम
जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्
भविष्यति गुहः प्रीतः स ममात्मसमः सखा
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्
हरणं चापि वैदेह्या रावणेन बलीयसा
सुग्रीवेण च संवादं वालिनश्च वधं रणे
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया
लङ्घयित्वा महातोयमापगापतिमव्ययम्
उपयानं समुद्रस्य सागरस्य च दर्शनम्
यथा च कारितः सेतू रावणश्च यथा हतः
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च
महादेवप्रसादाच्च पित्रा मम समागमम्
जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः
उपयाति समृद्धार्थः सह मित्रैर्महाबलः
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः
स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः
संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत्
प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर
यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः
मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम्
गङ्गायमुनयोर्भीमं संनिपातमतीत्य च
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्
स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः
ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्
एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः
उत्पपात महावेगो वेगवानविचारयन्
सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा
गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः
आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान्
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्
ददर्श भरतं दीनं कृशमाश्रमवासिनम्
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्
समुन्नतजटाभारं वल्कलाजिनवाससं
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं
पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम्
चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः