Yuddhakanda, Sarga 112, Verse 1
पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्
शृणोषि कचिद्भगवन्सुभिक्षानामयं पुरे
कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्
पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे
त्वां पुरा चीरवसनं प्रविशन्तं महावनम्
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम्
पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम्
स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्
दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय
कैकेयीवचने युक्तं वन्यमूलफलाशनम्
साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम्
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा
सर्वं च सुखदुःखं ते विदितं मम राघव
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम्
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्
मारीचदर्शनं चैव सीतोन्मथनमेव च
कबन्धदर्शनं चैव पम्पाभिगमनं तथा
सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः
यथा च दीपिता लङ्का प्रहृष्टैर्हरियूथपैः
सपुत्रबान्धवामात्यः सबलः सह वाहनः
यथा च निहतः संख्ये रावणो देवकण्टकः
समागमश्च त्रिदशैर्यथादत्तश्च ते वरः
सर्वं ममैतद्विदितं तपसा धर्मवत्सल
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर
अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः
बाढमित्येव संहृष्टः श्रीमान्वरमयाचत
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः
निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः