Yuddhakanda, Sarga 111, Verse 1
अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्
उत्पपात महामेघः श्वसनेनोद्धतो यथा
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्
उत्पपात महामेघः श्वसनेनोद्धतो यथा
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा
एतदायोधनं पश्य मांसशोणितकर्दमम्
हरीणां राक्षसानां च सीते विशसनं महत्
तवहेतोर्विशालाक्षि रावणो निहतो मया
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे
विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ
अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्
सपत्नीनां सहस्रेण सास्रेण परिवारिता
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्
एष सेतुर्मया बद्धः सागरे सलिलार्णवे
तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्
अत्र राक्षसराजोऽयमाजगाम विभीषणः
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
समयश्च कृतः सीते वधार्थं वालिनो मया
एषा सा दृश्यते पम्पा नलिनी चित्रकानना
त्वया विहीनो यत्राहं विललाप सुदुःखितः
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी
अत्र योजनबाहुश्च कबन्धो निहतो मया
दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः
यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि
रावणस्य नृशंसस्य जटायोश्च महात्मनः
खरश्च निहतश्संख्ये दूषणश्च निपातितः
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्
एषा गोदावरी रम्या प्रसन्नसलिला शिवा
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्
उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः
एते ते तापसावासा दृश्यन्ते तनुमध्यमे
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी
अस्मिन्देशे महाकायो विराधो निहतो मया
असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते
यत्र मां कैकयीपुत्रः प्रसादयितुमागतः
एषा सा यमुना दूराद्दृश्यते चित्रकानना
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि
शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः
एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम्