Yuddhakanda, Sarga 110, Verse 1
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम्
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्
कृतप्रयत्नकर्माणो विभीषण वनौकसः
रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय
सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः
एवं संमानिताश्चेमे मानार्हा मानद त्वया
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः
त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम्
यतस्त्वामवगच्छन्ति ततः संबोधयामि ते
एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः
रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत्
ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान्
आरुरोह ततो रामस्तद्विमानमनुत्तमम्
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता
अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान्
सुग्रीवं च महावीर्यं राक्षसं च विभीषणम्
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत
यत्तु कार्यं वयस्येन सुहृदा वा परंतप
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा
किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम
अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः
एवमुक्तास्तु रामेण वानरास्ते महाबलाः
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान्
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च
अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः
अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान्
प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः
क्षिप्रमारोह सुग्रीव विमानं वानरैः सह
त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण
ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया
अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्
राघवेणाभ्यनुज्ञातमुत्पपात विहायसं
ययौ तेन विमानेन हंसयुक्तेन भास्वता
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्