Yuddhakanda, Sarga 109, Verse 1
तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम्
अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम्
अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च
चन्दनानि च दिव्यानि माल्यानि विविधानि च
अलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः
उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्
हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय
स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः
तं विना कैकेयीपुत्रं भरतं धर्मचारिणम्
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च
इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम्
अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्
तदिदं मेघसंकाशं विमानमिह तिष्ठति
तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि
प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम्
प्रणयाद्बहुमानाच्च सौहृदेन च राघव
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम्
पूजितोऽहं त्वया वीर साचिव्येन परंतप
सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः
शिरसा याचतो यस्य वचनं न कृतं मया
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर
कृतकार्यस्य मे वासः कथंचिदिह संमतः
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण
मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम्
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम्
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्
तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः
महार्हास्तरणोपेतैरुपपन्नं महाधनैः
उपस्थितमनाधृष्यं तद्विमानं मनोजवम्
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः