Yuddhakanda, Sarga 108, Verse 1
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः
अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः
अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्
अमोघं दर्शनं राम तवास्माकं परंतप
प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया
यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर
मम हेतोः पराक्रान्ता ये गता यमसादनम्
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे
नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान्
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद
अकाले चापि मुख्यानि मूलानि च फलानि च
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्
महानयं वरस्तात त्वयोक्तो रघुनन्दन
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा
अकाले पुष्पशबलाः फलवन्तश्च पादपाः
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः
सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः
बभूवुर्वानराः सर्वे किमेतदिति विस्मितः
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः
ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम्
गच्छायोध्यामितो वीर विसर्जय च वानरान्
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम्
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतचारिणम्
अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह
विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम्
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा
ततस्तु सा लक्ष्मणरामपालिता; महाचमूर्हृष्टजना यशस्विनी
श्रिया ज्वलन्ती विरराज सर्वतो; निशाप्रणीतेव हि शीतरश्मिना