Yuddhakanda, Sarga 106, Verse 1
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्
अङ्केनादाय वैदेहीमुत्पपात विभावसुः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्
अङ्केनादाय वैदेहीमुत्पपात विभावसुः
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्
अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम्
ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः
एषा ते राम वैदेही पापमस्या न विद्यते
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा
सुवृत्ता वृत्तशौण्डीरा न त्वामतिचचार ह
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा
त्वया विरहिता दीना विवशा निर्जनाद्वनात्
रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा
रक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली
नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव
न किंचिदभिधातव्यमहमाज्ञापयामि ते
एवमुक्तो महातेजा धृतिमान्दृढविक्रमः
अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः
अवश्यं त्रिषु लोकेषु सीता पावनमर्हति
दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा
बालिशः खलु कामात्मा रामो दशरथात्मजः
इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि
अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम्
अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा
रावणो नातिवर्तेत वेलामिव महोदधिः
न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम्
प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा
अनन्या हि मया सीतां भास्करेण प्रभा यथा
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा
न हि हातुमियं शक्या कीर्तिरात्मवता यथा
अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्
स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम्
इतीदमुक्त्वा वचनं महाबलैः; प्रशस्यमानः स्वकृतेन कर्मणा
समेत्य रामः प्रियया महाबलः; सुखं सुखार्होऽनुबभूव राघवः