Yuddhakanda, Sarga 105, Verse 1
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः
एते सर्वे समागम्य विमानैः सूर्यसंनिभैः
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्
ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान्
अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे
ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी
अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः
अब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः
आत्मानं मानुषं मन्ये रामं दशरथात्मजम्
योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे
इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्
अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः
अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप
प्रभवं निधनं वा ते न विदुः को भवानिति
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक्
त्वं धारयसि भूतानि वसुधां च सपर्वताम्
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः
त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती
देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो
निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा
संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम्
सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर
निहतो रावणो राम प्रहृष्टो दिवमाक्रम
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः