Yuddhakanda, Sarga 102, Verse 1
स उवाच महाप्रज्ञमभिगम्य प्लवंगमः
रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
स उवाच महाप्रज्ञमभिगम्य प्लवंगमः
रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः
तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा
मैथिली विजयं श्रुत्वा तव हर्षमुपागमत्
पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया
भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्
एवमुक्तो हनुमता रामो धर्मभृतां वरः
अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः
दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन्
उवाच मेघसंकाशं विभीषणमुपस्थितम्
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्
इह सीतां शिरःस्नातामुपस्थापय माचिरम्
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः
प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता
यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्
अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः
यथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता
भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत
ततः सीतां शिरःस्नातां युवतीभिरलंकृताम्
महार्हाभरणोपेतां महार्हाम्बरधारिणीम्
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः
सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम्
प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्
हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत्
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्
विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्
राक्षसाधिपते सौम्य नित्यं मद्विजये रत
वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु
स तद्वचनमाज्ञाय राघवस्य विभीषणः
तूर्णमुत्सारणे यत्नं कारयामास सर्वतः
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः
उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः
ऋक्षाणां वानराणां च राक्षसानां च सर्वतः
वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः
वायुनोद्वर्तमानस्य सागरस्येव निस्वनः
उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान्
दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव
विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः
किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः
निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः
नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः
व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयंवरे
न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः
सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता
दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः
तदानय समीपं मे शीघ्रमेनां विभीषण
सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम्
एवमुक्तस्तु रामेण सविमर्शो विभीषणः
रामस्योपानयत्सीतां संनिकर्षं विनीतवत्