Yuddhakanda, Sarga 101, Verse 1
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
प्रविश्य तु महातेजा रावणस्य निवेशनम्
ददर्श शशिना हीनां सातङ्कामिव रोहिणीम्
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे
वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः
कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः
विभीषणसहायेन रामेण हरिभिः सह
निहतो रावणो देवि लक्ष्मणस्य नयेन च
पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः
अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा
रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ
संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः
एवमुक्ता समुत्पत्य सीता शशिनिभानना
प्रहर्षेणावरुद्धा सा व्याजहार न किंचन
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता
अब्रवीत्परमप्रीता हर्षगद्गदया गिरा
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्
न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम
मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्
न च पश्यामि तत्सौम्य पृथिव्यामपि वानर
सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम्
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः
प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्
तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः
हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम्
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः
राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः
मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने
घोरैर्जानुप्रहारैश्च दशनानां च पातनैः
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा
भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि
हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः
एवमुक्ता महुमता वैदेही जनकात्मजा
उवाच धर्मसहितं हनूमन्तं यशस्विनी
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम