Yuddhakanda, Sarga 100, Verse 1
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः
जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः
जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः
रावणस्य वधं घोरं राघवस्य पराक्रमम्
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत्
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे
राघवः परमप्रीतः सुग्रीवं परिषस्वजे
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम्
अब्रवीच्च तदा रामः समीपपरिवर्तिनम्
सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं
विभीषणमिमं सौम्य लङ्कायामभिषेचय
अनुरक्तं च भक्तं च मम चैवोपकारिणम्
एष मे परमः कामो यदिमं रावणानुजम्
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्
एवमुक्तस्तु सौमित्री राघवेण महात्मना
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम्
लङ्कायां रक्षसां मध्ये राजानं रामशासनात्
अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम्
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः
स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः
प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत्
अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तथा
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः
स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम्
अब्रवीद्राघवो वाक्यं हनूमन्तं प्लवंगमम्
अनुमान्य महाराजमिमं सौम्य विभीषणम्
प्रविश्य रावणगृहं विनयेनोपसृत्य च
वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम्
आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम्
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर
प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि