Yuddhakanda, Sarga 99, Verse 1
तासां विलपमानानां तथा राक्षसयोषिताम्
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
तासां विलपमानानां तथा राक्षसयोषिताम्
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्
ननु नाम महाबाहो तव वैश्रवणानुज
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः
स त्वं मानुषमात्रेण रामेण युधि निर्जितः
न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्
अविषह्यं जघान त्वां मानुषो वनगोचरः
मानुषाणामविषये चरतः कामरूपिणः
विनाशस्तव रामेण संयुगे नोपपद्यते
न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे
सर्वतः समुपेतस्य तव तेनाभिमर्शनम्
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया
स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः
अथ वा रामरूपेण वासवः स्वयमागतः
मायां तव विनाशाय विधायाप्रतितर्किताम्
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः
खरस्तव हतो भ्राता तदैवासौ न मानुषः
यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि
प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम्
क्रियतामविरोधश्च राघवेणेति यन्मया
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्
न कुलेन न रूपेण न दाक्षिण्येन मैथिली
मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः
तव तावदयं मृत्युर्मैथिलीकृतलक्षणः
मैथिली सह रामेण विशोका विहरिष्यति
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया
विमानेनानुरूपेण या याम्यतुलया श्रिया
पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा
भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव
सत्यवाक्स महाभागो देवरो मे यदब्रवीत्
अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना
त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम्
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः
स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः
आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम्
नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः
सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः
यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे
येन सूदयसे शत्रून्समरे सूर्यवर्चसा
वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः
रणे शत्रुप्रहरणो हेमजालपरिष्कृतः
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय