Yuddhakanda, Sarga 97, Verse 1
अथ संस्मारयामास राघवं मातलिस्तदा
अजानन्निव किं वीर त्वमेनमनुवर्तसे
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ संस्मारयामास राघवं मातलिस्तदा
अजानन्निव किं वीर त्वमेनमनुवर्तसे
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो
विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते
ततः संस्मारितो रामस्तेन वाक्येन मातलेः
जग्राह स शरं दीप्तं निश्वसन्तमिवोरगम्
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः
ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान्
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा
दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः
यस्य वाजेषु पवनः फले पावकभास्करौ
शरीरमाकाशमयं गौरवे मेरुमन्दरौ
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्
तेजसा सर्वभूतानां कृतं भास्करवर्चसं
सधूममिव कालाग्निं दीप्तमाशीविषं यथा
रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्
द्वाराणां परिघाणां च गिरीणामपि भेदनम्
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम्
वज्रसारं महानादं नानासमितिदारुणम्
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्
कङ्कगृध्रबलानां च गोमायुगणरक्षसाम्
नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम्
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः
वेदप्रोक्तेन विधिना संदधे कार्मुके बली
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्
चिक्षेप परमायत्तस्तं शरं मर्मघातिनम्
स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः
कृतान्त इव चावार्यो न्यपतद्रावणोरसि
स विसृष्टो महावेगः शरीरान्तकरः शरः
बिभेद हृदयं तस्य रावणस्य दुरात्मनः
रुधिराक्तः स वेगेन जीवितान्तकरः शरः
रावणस्य हरन्प्राणान्विवेश धरणीतलम्
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः
कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत्
तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम्
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्
गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः
पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः
हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः
नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात्
हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः
ततो विनेदुः संहृष्टा वानरा जितकाशिनः
वदन्तो राघवजयं रावणस्य च तं वधम्
अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि
किरन्ती राघवरथं दुरवापा मनोहराः
राघवस्तवसंयुक्ता गगने च विशुश्रुवे
साधु साध्विति वागग्र्या देवतानां महात्मनाम्
आविवेश महान्हर्षो देवानां चारणैः सह
रावणे निहते रौद्रे सर्वलोकभयंकरे
ततः सकामं सुग्रीवमङ्गदं च महाबलम्
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्