Yuddhakanda, Sarga 88, Verse 1
तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः
कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः
जघान परमास्त्रेण गन्धर्वेण महाद्युतिः
तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः
तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः
पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः
आयुधानि विचित्राणि रावणस्य चमूमुखे
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः
रावणेन महातेजा न प्राकम्पत राघवः
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः
राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली
लक्ष्मणः सायकान्सप्त जग्राह परवीरहा
तैः सायकैर्महावेगै रावणस्य महाद्युतिः
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्
जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः
नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान्
जघानाप्लुत्य गदया रावणस्य विभीषणः
हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात्
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः
ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः
अथोदतिष्ठत्संनादो वानराणां तदा रणे
सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
ततः संभाविततरां कालेनापि दुरासदाम्
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा
सा वेगिना बलवता रावणेन दुरात्मना
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्
प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः
रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत्
कीर्यमाणः शरौघेण विसृष्टेन महात्मना
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्
मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्
मयेन मायाविहिताममोघां शत्रुघातिनीम्