Yuddhakanda, Sarga 87, Verse 1
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले
आविवेश महान्क्रोधो रावणं तु महामृधे
सूतं संचोदयामास वाक्यं चेदमुवाच ह
निहतानाममात्यानां रुद्धस्य नगरस्य च
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्
प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः
स दिशो दश घोषेण रथस्यातिरथो महान्
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत
पूरिता तेन शब्देन सनदीगिरिकानना
संचचाल मही सर्वा सवराहमृगद्विपा
तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः
स ददर्श ततो रामं तिष्ठन्तमपराजितम्
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्
वानरांश्च रणे भग्नानापतन्तं च रावणम्
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्
विस्फारयितुमारेभे ततः स धनुरुत्तमम्
महावेगं महानादं निर्भिन्दन्निव मेदिनीम्
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः
स बभूव यथा राहुः समीपे शशिसूर्ययोः
रावणस्य च बाणौघै रामविस्फरितेन च
शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा
तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः
मुमोच धनुरायम्य शरानग्निशिखोपमान्
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत्
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम्
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः
आससाद ततो रामं स्थितं शैलमिवाचलम्
स संख्ये राममासाद्य क्रोधसंरक्तलोचनः
व्यसृजच्छरवर्षानि रावणो राघवोपरि
शरधारास्ततो रामो रावणस्य धनुश्च्युताः
दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्
ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः
दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव
राघवो रावणं तूर्णं रावणो राघवं तथा
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्
बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ
तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः
संततं विविधैर्बाणैर्बभूव गगनं तदा
घनैरिवातपापाये विद्युन्मालासमाकुलैः
गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः
शरान्धकारं तौ भीमं चक्रतुः परमं तदा
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ
उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव