Yuddhakanda, Sarga 86, Verse 1
महोदरे तु निहते महापार्श्वो महाबलः
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
महोदरे तु निहते महापार्श्वो महाबलः
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः
पातयामास कायेभ्यः फलं वृन्तादिवानिलः
केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः
वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः
विषादविमुखाः सर्वे बभूवुर्गतचेतसः
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्
स तु तेन प्रहारेण महापार्श्वो विचेतनः
ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः
निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात्
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्
अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम्
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ
जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान्
महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः
करेणैकेन जग्राह सुमहान्तं परश्वधम्
तं तैलधौतं विमलं शैलसारमयं दृढम्
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्
तेन वामांसफलके भृशं प्रत्यवपातितम्
अङ्गदो मोक्षयामास सरोषः स परश्वधम्
स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः
संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्
तेन तस्य निपातेन राक्षसस्य महामृधे
पफाल हृदयं चाशु स पपात हतो भुवि
तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे
अभवच्च महान्क्रोधः समरे रावणस्य तु