Yuddhakanda, Sarga 85, Verse 1
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे
सरसीव महाघर्मे सूपक्षीणे बभूवतुः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे
सरसीव महाघर्मे सूपक्षीणे बभूवतुः
स्वबलस्य विघातेन विरूपाक्षवधेन च
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्
उवाच च समीपस्थं महोदरमरिंदमम्
अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्
भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः
प्रविवेशारिसेनां स पतंग इव पावकम्
ततः स कदनं चक्रे वानराणां महाबलः
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्
अभिदुद्राव सुग्रीवो महोदरमनन्तरम्
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः
असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम्
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः
सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि
शरैश्च विददारैनं शूरः परपुरंजयः
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्
परिघाग्रेण वेगेन जघानास्य हयोत्तमान्
तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्
गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ
आजघान गदां तस्य परिघेण हरीश्वरः
पपात स गदोद्भिन्नः परिघस्तस्य भूतले
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्
आयसं मुसलं घोरं सर्वतो हेमभूषितम्
तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम्
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ
जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्
भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ
आजहार तदा खड्गमदूरपरिवर्तिनम्
राक्षसश्चर्मणा सार्धं महावेगो महोदरः
तथैव च महाखड्गं चर्मणा पतितं सह
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ
दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ
स तु शूरो महावेगो वीर्यश्लाघी महोदरः
महाचर्मणि तं खड्गं पातयामास दुर्मतिः
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः
निकृत्तशिरसस्तस्य पतितस्य महीतले
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः