Yuddhakanda, Sarga 84, Verse 1
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः
बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः
बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता
रावणस्याप्रसह्यं तं शरसंपातमेकतः
न शेकुः सहितुं दीप्तं पतंगा इव पावकम्
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः
पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः
प्लवंगानामनीकानि महाभ्राणीव मारुतः
स ययौ समरे तस्मिन्विधमन्रावणः शरैः
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्
आससाद ततो युद्धे राघवं त्वरितस्तदा
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्
सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम्
अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान्
स नदन्युधि सुग्रीवः स्वरेण महता महान्
पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान्
ममर्द च महाकायो राक्षसान्वानरेश्वरः
युगान्तसमये वायुः प्रवृद्धानगमानिव
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह
अश्मवर्षं यथा मेघः पक्षिसंघेषु कानने
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः
सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्
स तं द्विरदमारुह्य विरूपाक्षो महारथः
विनदन्भीमनिर्ह्रालं वानरानभ्यधावत
सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे
स्थापयामासा चोद्विग्नान्राक्षसान्संप्रहर्षयन्
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा
चुक्रोध च महाक्रोधो वधे चास्य मनो दधे
ततः पादपमुद्धृत्य शूरः संप्रधने हरिः
अभिपत्य जघानास्य प्रमुखे तं महागजम्
स तु प्रहाराभिहतः सुग्रीवेण महागजः
अपासर्पद्धनुर्मात्रं निषसाद ननाद च
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्
आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्
स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम्
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम्
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा
तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे
कवचं पातयामास स खड्गाभिहतोऽपतत्
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्
तलप्रहारमशनेः समानं भीमनिस्वनम्
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत्
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः
ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम्
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ
पपात रुधिरक्लिन्नः शोणितं स समुद्वमन्
विवृत्तनयनं क्रोधात्सफेनरुधिराप्लुतम्
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्