Yuddhakanda, Sarga 83, Verse 1
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले
रावणः करुणं शब्दं शुश्राव परिवेदितम्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले
रावणः करुणं शब्दं शुश्राव परिवेदितम्
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः
बभूव परमक्रुद्धो रावणो भीमदर्शनः
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः
भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा
महोदरं महापार्श्वं विरूपाक्षं च राक्षसं
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः
कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः
प्रतिपूज्य यथान्यायं रावणं ते महारथाः
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः
अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः
राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम्
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा
करिष्यामि प्रतीकारमद्य शत्रुवधादहम्
नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः
अद्य वानरयूथानां तानि यूथानि भागशः
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः
व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम्
अद्य यूथतटाकानि गजवत्प्रमथाम्यहम्
सशरैरद्य वदनैः संख्ये वानरयूथपाः
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम्
हतो भर्ता हतो भ्राता यासां च तनया हताः
वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम्
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्
अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः
कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः
अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः
तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः
बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात्
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः
ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः
नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः
असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः
भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः
अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्
आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम्
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः
निर्ययावुद्यतधनुः कालान्तकयमोमपः